श्रीमद्दक्षिणकालिकायाः स्वरूपाख्यं कर्पूरादिस्तोत्रम् !! ~ Balaji Kripa

Tuesday, 27 October 2015

श्रीमद्दक्षिणकालिकायाः स्वरूपाख्यं कर्पूरादिस्तोत्रम् !!



श्री गणेशाय नमः ।।
कर्पूरं मधमान्त्यस्वरपरिरहितं सेन्दुवामाक्षियुक्तं बीजं ते
मातरेतत्त्रिपुरहरवधु त्रिःकृतं ये जपन्ति ।
तेषां गद्यानि पद्यानि च मुकुहुहरादुल्लसन्त्येव वाचः स्वच्छन्दं
ध्वान्तधाराधरुरुचिरुचिरे सर्वसिद्धिं गतानाम्व्व॥१॥

ईशान् सेन्दुवामश्रवणपरिगतो बीजमन्यन्महेशि द्वन्द्वं ते
मन्दचेता यदि जपति जनो वारूमेकं कदाचित् ।
जित्वा वाचामधीशं धनमपि चिरं मोहयन्नम्बुजाक्षीवृन्दं
चन्द्रार्धचूडे प्रभवति स महाघोरबालावतंसेवव॥२॥

ईशो वैश्वानरस्थः शशधरविलसद् वामनेत्रेण युक्तो बीजं ते
द्वन्द्वमन्यद् विगलितचिकुरे कालिके ये जपन्ति ।
द्वेष्टारं घ्नन्ति ते च त्रिभुवनमपि ते वश्यभावं नयन्ति
सृक्कद्वन्दास्रधाराद्वयधरवदने दक्षिणे त्र्यक्षरेति ॥३॥

ऊर्ध्वे वामे कृपाणं करकमलतले छिन्नमुण्डं तथाधः सव्ये
चाभीर्वरं च त्रिजगदघहरे दक्षिणे कालिके च ।
जप्त्वैतन्नाम ये वा तव मनुविभवं भावयन्त्येतदम्ब तेषामष्टौ
करस्था: प्रकटितरदनेसिद्धयस्त्र्यम्बकस्य ॥४॥

वर्गाद्यं वह्निसंस्थं विधुरतिललितं तत्त्रयं कूर्चयुग्मं
लज्जाद्वन्द्वं च पश्चात् स्मितमुखि तदधष्ठद्वयं योजयित्वा ।
मातर्ये ये जपन्ति स्मरहरमहिले भावयन्तः स्वरूपं ते
लक्ष्मीलास्यलीलाकमलदलदृशः कामरूपा भवन्ति ॥५॥

प्रत्येकं वा द्वयं वा त्रयमपि च परं बीजमत्यन्तगुह्यं
त्वन्नाम्ना योजयित्वा सकलमपि सदा भावयन्तो जपन्ति ।
तेषां नेत्रारविन्दे विहरति कमला वक्त्रशुभ्रांशुबिम्बे वाग्देवी
देवि मुण्डस्त्रगतिशयलसत्कण्ठि पीनस्तनाढ्ये ॥६॥

गतासूनां बाहुप्रकरकृतकञ्चीपरिलसन्नितम्बां
दिग्वस्त्रां त्रिभुवनविधात्रीं त्रिणयनां ।
श्मशानस्ते तल्पे शवहृदि महाकालसुरतप्रयुक्तां त्वाम्
ध्यायन् जननि जडचेता अपि कविः ॥७॥

शिवाभिर्घोराभिः शवनिवहमुण्डास्थिकरैः परं
सम्कीर्णायाम् प्रकटितचितायां हरवधूम् ।
प्रविष्टां सम्तुष्टामुपरिसुरतेनातियुवतीं सदा
त्वां ध्यायन्ति क्वचिदपिच न तेषां परिभवः ॥८॥

वदामस्ते किं वा जननि वयमुच्चैर्जडधियो
न धाता नापीशो हरिरपि न ते वेत्ति परमम् ।
तथापि त्वद्भक्तिर्मुखरयति चास्माकममिते
तदेतत्क्षन्तव्यं नखलु पशुरोषः समुचितः ॥९॥

समन्तादापीनस्तनजघनधृघौवनवतीरतासक्तो
नक्तं यदि जपति भक्तस्तव मनुम् ।
विवासास्त्वां ध्यायन् गलितचिकुरस्तस्य वशगाः
समस्ताः सिद्धौघा भुवि चिरतरं जीवति कविः ॥१०॥

समाः सुस्थीभूतो जपति विपरीतां यदि सदा विचिन्त्य त्वाम् ।
ध्यायन्नतिशयमहाकालसुरताम् ।
तदा तस्य क्षोणीतलविहरमाणस्य विदुषः
कराम्भोजे वश्या पुरहस्वधू सिद्धिनिवहाः ॥११॥

प्रसूते सम्सारं जननि भवती पालयति च
समस्तं क्षित्यादि प्रलयसमये स्मरति च ।
अतस्त्वं धातासि त्रिभुवनपतिः श्रीपतिरपि
महेशोऽपि प्रायः सकलमपि किं स्तौमि भवतीम् ॥१२॥

अनेके सेवन्ते भवदधिकगीवार्णनिवहान्
विमूढास्ते मातः किमपिन हि जानन्ति परमम् ।
समाराध्यामाद्यां हरिहरविरिञ्चादिविबुधैः
प्रपन्नोऽस्मि स्वैरं रतिरससमहानन्दनिरताम् ॥१३॥

धरत्रि कीलालं शुचिरपि
समीरोऽपि गगनं त्वमेका कल्याणी ।
गिरिशरमणी कालि सकलम्
प्रसन्नां त्वं भूया भवमनु न भूयान्मम जनुः ॥१४॥

श्मशानस्थः सुस्थो गलितचिकुरो दिक्पटधरः सहस्रं
त्वकार्णाम् निजगलितवीर्येण कुसुमम्।
जपम्स्त्वत्प्रयेकं मनुमपि तव ध्याननिरतो
महाकालि स्वैरं स भवति धरित्रीपरिवृढः ॥१५॥

गृहे सम्मार्ज्यन्या परिगलितविर्यं हि
चिकुरं समूलं मध्याह्ने वितरति चितायां कुजदिने ।
समुच्चार्य प्रमेणा मनुमपि सकृत्कालि
सततं गजारूढो याति क्षितिपरिवृढः सत्कविवरः ॥१६॥

स्वपुष्पैराकीर्णं कुसुमधनुषो मन्दिरमहो
पुरो ध्यायन्ध्यायन् यदि जपति भक्तस्तव मनुम् ।
स गन्धर्वश्रेणीपतिरपि कवित्वामृतनदीनदीनः
पर्यन्ते परमपदलीनः प्रभवति ॥१७॥

त्रिपञ्चारे पीठे शवशिवहृदि स्मेरवदनाम्
महाकालेनोच्चैर्मदनरसलावण्यनिरताम् ।
समासक्तो नक्तं स्वयमपि रतानन्दनिरतो
जनो यो ध्यायेत्त्वामयि जननि स स्यात् स्मरहरः ॥१८॥

सलोमास्थि स्वैरं पललमपि मार्जारमसिते
परं चोष्ट्त्रम् मैशम् नरमहिषयोश्छागमपि वा ।
बलिम् ते पूजायामयि वितरतां मर्त्यवसतां
सतां सिद्धिः सर्वा प्रतिपदमपूर्वा प्रभवति ॥१९॥

वशी लक्षं मन्त्रं प्रजपति हविष्याशनरतो दिवा
मातर्युष्मच्चरणयुगलध्याननिपुणः ।
परं नक्तं नग्नो निधुवनविनोदेन च मनुं
जपेल्लक्षं स स्यात्स्मरहरसमानः क्षितितले ॥२०॥

इदं स्तोत्रं मातस्तव मनुसमुद्धारणजनुः
स्वरूपाख्यम् पादाम्बुजयुगलपूजाविधियुतम् ।
निशार्धं वा पूजासमयमधि वा यस्तु
पठति प्रलापस्तस्यापि प्रसरति कवित्वामृतरसः ॥२१॥

कुरङ्गाक्षीवृन्दं तमनुसरति प्रेमतरलं
वशस्तस्य क्षोणीपतिरपि कुबेरप्रतिनिधिः ।
रिपुः कारागारं कलयति च तं केलिकलया
चिरं जीवन्मुक्तः प्रभवति स भक्तः प्रतिजनुः ॥२२॥

इति श्रीमन्महाकालिविरचितं श्रीमद्दक्षिणकालिकायाः स्वरूपाख्यं स्तोत्रं समाप्तम्

0 comments:

Post a Comment